वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वन्त॒: सद॒मित्स्थ॒नाशि॑ताः । रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ॥
vṛṣā vo aṁśur na kilā riṣāthaneḻāvantaḥ sadam it sthanāśitāḥ | raivatyeva mahasā cāravaḥ sthana yasya grāvāṇo ajuṣadhvam adhvaram ||
वृषा॑ । वः॒ । अं॒शुः । न । किल॑ । रि॒षा॒थ॒न॒ । इळा॑ऽवन्तः । सद॑म् । इत् । स्थ॒न॒ । आशि॑ताः । रै॒व॒त्याऽइ॑व । मह॑सा । चार॑वः । स्थ॒न॒ । यस्य॑ । ग्रा॒वा॒णः॒ । अजु॑षध्वम् । अ॒ध्व॒रम् ॥ १०.९४.१०